हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Kishkindha Kanda Sarga 24 – किष्किन्धाकाण्ड चतुर्विंशः सर्गः (२४)
॥ सुग्रीवताराश्वासनम् ॥
तां चाश्रुवेगेन दुरासदेन
त्वभिप्लुतां शोकमहार्णवेन ।
पश्यंस्तदा वाल्यनुजस्तरस्वी
भ्रातुर्वधेनाप्रतिमेन तेपे ॥ १ ॥
स बाष्पपूर्णेन मुखेन वीक्ष्य
क्षणेन निर्विण्णमना मनस्वी ।
जगाम रामस्य शनैः समीपं
भृत्यैर्वृतः सम्परिदूयमानः ॥ २ ॥
स तं समासाद्य गृहीतचाप-
-मुदात्तमाशीविषतुल्यबाणम् ।
यशस्विनं लक्षणलक्षिताङ्ग-
-मवस्थितं राघवमित्युवाच ॥ ३ ॥
यथाप्रतिज्ञातमिदं नरेन्द्र
कृतं त्वया दृष्टफलं च कर्म ।
ममाद्य भोगेषु नरेन्द्रपुत्र
मनो निवृत्तं सह जीवितेन ॥ ४ ॥
अस्यां महिष्यां तु भृशं रुदन्त्यां
पुरे च विक्रोशति दुःखतप्ते ।
हतेऽग्रजे संशयितेऽङ्गदे च
न रामराज्ये रमते मनो मे ॥ ५ ॥
क्रोधादमर्षादतिविप्रधर्षा-
-द्भ्रातुर्वधो मेऽनुमतः पुरस्तात् ।
हते त्विदानीं हरियूथपेऽस्मिन्
सुतीव्रमिक्ष्वाकुकुमार तप्स्ये ॥ ६ ॥
श्रेयोऽद्य मन्ये मम शैलमुख्ये
तस्मिन्निवासश्चिरमृश्यमूके ।
यथा तथा वर्तयतः स्ववृत्त्या
नेमं निहत्य त्रिदिवस्य लाभः ॥ ७ ॥
न त्वां जिघांसामि चरेति यन्मा-
-मयं महात्मा मतिमानुवाच ।
तस्यैव तद्राम वचोऽनुरूप-
-मिदं पुनः कर्म च मेऽनुरूपम् ॥ ८ ॥
भ्राता कथं नाम महागुणस्य
भ्रातुर्वधं राघव रोचयेत ।
राज्यस्य दुःखस्य च वीर सारं
न चिन्तयन् कामपुरस्कृतः सन् ॥ ९ ॥
वधो हि मे मतो नासीत्स्वमाहात्म्यव्यतिक्रमात् ।
ममासीद्बुद्धिदौरात्म्यात्प्राणहारी व्यतिक्रमः ॥ १० ॥
द्रुमशाखावभग्नोऽहं मुहूर्तं परिनिष्ठनन् ।
सान्त्वयित्वा त्वनेनोक्तो न पुनः कर्तुमर्हसि ॥ ११ ॥
भ्रातृत्वमार्यभावश्च धर्मश्चानेन रक्षितः ।
मया क्रोधश्च कामश्च कपित्वं च प्रदर्शितम् ॥ १२ ॥
अचिन्तनीयं परिवर्जनीय-
-मनीप्सनीयं स्वनवेक्षणीयम् ।
प्राप्तोऽस्मि पाप्मानमिमं नरेन्द्र
भ्रातुर्वधात्त्वाष्ट्रवधादिवेन्द्रः ॥ १३ ॥
पाप्मानमिन्द्रस्य मही जलं च
वृक्षाश्च कामं जगृहुः स्त्रियश्च ।
को नाम पाप्मानमिमं क्षमेत
शाखामृगस्य प्रतिपत्तुमिच्छन् ॥ १४ ॥
नार्हामि सम्मानमिमं प्रजानां
न यौवराज्यं कुत एव राज्यम् ।
अधर्मयुक्तं कुलनाशयुक्त-
-मेवंविधं राघव कर्म कृत्वा ॥ १५ ॥
पापस्य कर्ताऽस्मि विगर्हितस्य
क्षुद्रस्य लोकापकृतस्य चैव ।
शोको महान् मामभिवर्ततेऽयं
वृष्टेर्यथा निम्नमिवाम्बुवेगः ॥ १६ ॥
सोदर्यघातागात्रवालः
सन्तापहस्ताक्षिशिरोविषाणः ।
एनोमयो मामभिहन्ति हस्ती
दृप्तो नदीकूलमिव प्रवृद्धः ॥ १७ ॥
अंहो बतेदं नृवराविषह्य
निवर्तते मे हृदि साधु वृत्तम् ।
विवर्णमग्नौ परितप्यमानं
किट्टं यथा राघव जातरूपम् ॥ १८ ॥
महाबलानां हरियूथपाना-
-मिदं कुलं राघव मन्निमित्तम् ।
अस्याङ्गदस्यापि च शोकतापा-
-दर्धस्थितप्राणमितीव मन्ये ॥ १९ ॥
सुतः सुलभ्यः सुजनः सुवश्यः
कुतः सुपुत्रः सदृशोऽङ्गदेन ।
न चापि विद्येत स वीर देशो
यस्मिन्भवेत् सोदरसन्निकर्षः ॥ २० ॥
यद्यङ्गदो वीरवरार्ह जीवे-
-ज्जीवेच्च माता परिपालनार्थम् ।
विना तु पुत्रं परितापदीना
तारा न जीवेदिति निश्चितं मे ॥ २१ ॥
सोऽहं प्रवेक्ष्याम्यतिदीप्तमग्निं
भ्रात्रा च पुत्रेण च सख्यमिच्छन् ।
इमे विचेष्यन्ति हरिप्रवीराः
सीतां निदेशे तव वर्तमानाः ॥ २२ ॥
कृत्स्नं तु ते सेत्स्यति कार्यमेत-
-न्मय्यप्रतीते मनुजेन्द्रपुत्र ।
कुलस्य हन्तारमजीवनार्हं
रामानुजानीहि कृतागसं माम् ॥ २३ ॥
इत्येवमार्तस्य रघुप्रवीरः
श्रुत्वा वचो वाल्यनुजस्य तस्य ।
सञ्जातबाष्पः परवीरहन्ता
रामो मुहूर्तं विमना बभूव ॥ २४ ॥
तस्मिन् क्षणेऽभीक्ष्णमवेक्ष्यमाणः
क्षितिक्षमावान् भुवनस्य गोप्ता ।
रामो रुदन्तीं व्यसने निमग्नां
समुत्सुकः सोऽथ ददर्श ताराम् ॥ २५ ॥
तां चारुनेत्रां कपिसिंहनाथं
पतिं समाश्लिष्य तदा शयानाम् ।
उत्थापयामासुरदीनसत्त्वां
मन्त्रिप्रधानाः कपिवीरपत्नीम् ॥ २६ ॥
सा विस्फुरन्ती परिरभ्यमाणा
भर्तुः सकाशादपनीयमाना ।
ददर्श रामं शरचापपाणिं
स्वतेजसा सूर्यमिव ज्वलन्तम् ॥ २७ ॥
सुसंवृतं पार्थिवलक्षणैश्च
तं चारुनेत्रं मृगशाबनेत्रा ।
अदृष्टपूर्वं पुरुषप्रधान-
-मयं स काकुत्स्थ इति प्रजज्ञे ॥ २८ ॥
तस्येन्द्रकल्पस्य दुरासदस्य
महानुभावस्य समीपमार्या ।
आर्ताऽतितूर्णं व्यसनाभिपन्ना
जगाम तारा परिविह्वलन्ती ॥ २९ ॥
सा तं समासाद्य विशुद्धसत्त्वा
शोकेन सम्भ्रान्तशरीरभावा ।
मनस्विनी वाक्यमुवाच तारा
रामं रणोत्कर्षणलब्धलक्षम् ॥ ३० ॥
त्वमप्रमेयश्च दुरासदश्च
जितेन्द्रियश्चोत्तमधार्मिकश्च ।
अक्षय्यकीर्तिश्च विचक्षणश्च
क्षितिक्षमावान् क्षतजोपमाक्षः ॥ ३१ ॥
त्वमात्तबाणासनबाणपाणि-
-र्महाबलः संहननोपपन्नः ।
मनुष्यदेहाभ्युदयं विहाय
दिव्येन देहाभ्युदयेन युक्तः ॥ ३२ ॥
येनैकबाणेन हतः प्रियो मे
तेनेव मां त्वं जहि सायकेन ।
हता गमिष्यामि समीपमस्य
न मामृते राम रमेत वाली ॥ ३३ ॥
स्वर्गेऽपि पद्मामलपत्रनेत्रः
समेत्य सम्प्रेक्ष्य च मामपश्यन् ।
न ह्येष उच्चावचताम्रचूडा
विचित्रवेषाप्सरसोऽभजिष्यत् ॥ ३४ ॥
स्वर्गेऽपि शोकं च विवर्णतां च
मया विना प्राप्स्यति वीर वाली ।
रम्ये नगेन्द्रस्य तटावकाशे
विदेहकन्यारहितो यथा त्वम् ॥ ३५ ॥
त्वं वेत्थ यावद्वनिताविहीनः
प्राप्नोति दुःखं पुरुषः कुमारः ।
तत्त्वं प्रजानन् जहि मां न वाली
दुःखं ममादर्शनजं भजेत ॥ ३६ ॥
यच्चापि मन्येत भवान्महात्मा
स्त्रीघातदोषो न भवेत्तु मह्यम् ।
आत्मेयमस्येति च मां जहि त्वं
न स्त्रीवधः स्यान्मनुजेन्द्रपुत्र ॥ ३७ ॥
शास्त्रप्रयोगाद्विविधाच्च वेदा-
-दात्मा ह्यनन्यः पुरुषस्य दाराः ।
दारप्रदानान्न हि दानमन्य-
-त्प्रदृश्यते ज्ञानवतां हि लोके ॥ ३८ ॥
त्वं चापि मां तस्य मम प्रियस्य
प्रदास्यसे धर्ममवेक्ष्य वीर ।
अनेन दानेन न लप्स्यसे त्व-
-मधर्मयोगं मम वीर घातात् ॥ ३९ ॥
आर्तामनाथामपनीयमाना-
-मेवंविधामर्हसि मां निहन्तुम् ।
अहं हि मातङ्गविलासगामिना
प्लवङ्गमानामृषभेण धीमता ॥ ४० ॥
विना वरार्होत्तमहेममालिना
चिरं न शक्ष्यामि नरेन्द्र जीवितुम् ।
इत्येवमुक्तस्तु विभुर्महात्मा
तारां समाश्वास्य हितं बभाषे ॥ ४१ ॥
मा वीरभार्ये विमतिं कुरुष्व
लोको हि सर्वो विहितो विधात्रा ।
तं चैव सर्वं सुखदुःखयोगं
लोकोऽब्रवीत्तेन कृतं विधात्रा ॥ ४२ ॥
त्रयो हि लोका विहितं विधानं
नातिक्रमान्ते वशगा हि तस्य ।
प्रीतिं परां प्राप्स्यसि तां तथैव
पुत्रस्तु ते प्राप्स्यति यौवराज्यम् ॥ ४३ ॥
धात्रा विधानं विहितं तथैव
न शूरपत्न्यः परिदेवयन्ति ।
आश्वासिता तेन तु राघवेण
प्रभावयुक्तेन परन्तपेन ।
सा वीरपत्नी ध्वनता मुखेन
सुवेषरूपा विरराम तारा ॥ ४४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुर्विंशः सर्गः ॥ २४ ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.